AtharvavedIya nArAyana suktaM

18 ഫെബ്രു

AnimeshNagar's Blog

( अथर्वा /नारायण ऋषि । अनुष्टुप् छन्द । जगतबीजपुरुषो देवता )

image

ॐ नमो महते नारायणाय ।।
सहस्रशीर्षं देवं विश्वाख्यं विश्वशम्भुवम्   |
विश्वं नारायणं देवमक्षरं परमं प्रभुम्  ||१||
विश्वतः परमं नित्यं विश्वं नारायणं हरिम्    |
विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति  ||२||
पतिं विश्वस्यात्मेश्वरं शाश्वतं शिवमच्युतम्    |
नारायणं महाज्ञेयं विश्वात्मानं परायणम्  ||३||
नारायणः परं ब्रह्मतत्त्वं नारायणः परः  |
नारायणः परो ज्योतिरात्मा नारायणः परः ||४||
नारायणः परो ध्याता ध्यानं नारायणः परः   |
परादपि परश्चासु तस्माद्यस्तु परात्परः  ||५||
यच्च किञ्चिज्जगत्यस्मिन्दृश्यते श्रूयतेऽपि वा    |
अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ||६||
अनन्तमव्ययं कविं समुद्रेऽन्तं विश्वशम्भुवम्    |
पद्मकोशप्रतीकाशं सुषिरं चाप्यधोमुखम्  ||७||
अधोनिष्ट्या वितस्त्यां तु नाभ्यामुपरि तिष्ठति  |हृदयं तद्विजानीयाद्विश्वस्यायतनं महत्  ||८||
सततं तु शिराभिस्तु लम्बत्याकोशसन्निभम् |  
तस्यान्ते सुषिरं सूक्ष्मं तस्मिन्त्सर्वं प्रतिष्ठितम्  ||९||
तस्यमध्ये महानग्निर्विश्वार्चिर्विश्वतोमुखः   |
सोऽग्रभुग्विभजंस्तिष्ठन्नाहारमक्षयः कविः  ||१०||
सन्तापयति स्वं देहमापादतलमस्तकम्   |
तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिता ||११||
नीलतोयदमध्यस्था विद्युल्लेखेव भासुरा |नीवारशूकवत्तन्वी पीताभा स्यात्तनूपमा  ||१२||
तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः  |  स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट्  ||१३||
अथातो योग जिह्वा मे मधुवादिनी    |
अहमेव कालो नाहं कालस्य  ||१४||

View original post 17 more words

ഒരു അഭിപ്രായം ഇടൂ